« March 2011 »
S M T W T F S
1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31
You are not logged in. Log in
Entries by Topic
All topics  «
Blog Tools
Edit your Blog
Build a Blog
RSS Feed
View Profile
Monday, 7 March 2011
Sanskrit blog- From "maMkutimmana kagga" of DVG

 

 

डि.वि.जि. महोदयस्य कन्नडभाषायां रचितात् मंकुतिम्मनकग्गकाब्यात् उद्धृतस्य श्लोकचतुष्टयस्य अनुवादः: [भारतीयविज्ञानसंस्थायाः संस्कृतसंघस्य संस्कृतिःपत्रिकायां २००७तमे वर्षे प्रकटितः]

 

शैले तृणं भव गृहे भव मल्लिका त्वम्

कृच्छ्राणि वर्षति विधौ उपलो भव त्वम् ।

दीनस्य दुर्बलजनस्य तु शर्करा त्वम्

युक्तो भवाखिलजनैस्सह मंकुतिम्मो ॥

 

चित्ते स्वलाभपरता जठरे बुभुक्षा

तालाद्वयं सुनिभृतं खलु सृष्टियन्त्रे ।

उन्मूलयन्नुडुगणान् रचयन्श्च कोटान्

तत्त्वां करोत्यनृजुं बत मूढतिम्मो ॥

 

कस्मिंश्चिदन्धविपिने प्रकृतिः प्रसूने

वल्ल्याः स्वचित्ररचनाप्रतिभां प्रयुङ्क्ते ।

कुर्वन्ति ये गुणमयं सकलं स्वकर्म

ते जीविते हि कृतिनो खलु मूढतिम्मो ॥

 

बालस्य वातिजरठस्य पुराणिकस्य

रूपे स्पृहास्ति न हि कस्य पुरोहितस्य ।

सर्वे समीक्ष्य मुकुरे रहसि स्वबिंबम्

कुर्वन्ति वक्त्रविकृतिं खलु मूढतिम्मो ॥

- - - -

 

 

 

 

 


Posted by murthygss at 10:47 AM EST

View Latest Entries