« March 2011 »
S M T W T F S
1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31
You are not logged in. Log in
Entries by Topic
All topics  «
Blog Tools
Edit your Blog
Build a Blog
RSS Feed
View Profile
Thursday, 10 March 2011
Sanskrit blog: humour_5

 

हास्यसीकरः-५

देवदत्तः एकदा जटकाख्यतुरगशकटिकायां गच्छति स्म । मार्गे देवदत्तः शकटिकाचालकं पप्रच्छ, भोः, नगर्यां का वार्ता? । किञ्चिच्चकितः चालकः अवदत्, आर्य, न काचिदपि वार्ता श्रुता मया । परं तु मम वयस्यः कूटमेकं ददौ । तदित्थं, मम पितुः पुत्रः वर्तते यः मम अग्रजोऽपि न अनुजोऽपि न भवति ।सः कः? आर्यः कथयितुमर्हति । देवदत्तः चिरमचिन्तयत् तथापि उत्तरं दातुं न शशाक । पराभूतः अवदत्, न जाने । सः कः? कथय इति । उच्चैर्विहस्य चालकः अवदत्, आर्य, अहमेव । देवदत्तोऽपि उच्चैर्जहास, रुचिरं खलु तव कूटम् । तव नाम किम्? चालकः अवदत्, मम नाम मोहम्मद् उस्मान्बाढं, त्वं कुत्र वससि? मुस्लिम् मोहल्लायाः प्रथम वीथ्याम् । देवदत्तः कृच्छ्रेण चालकस्य नामधामविशेषान् कंठस्थमकरोत् ।

अथ कदाचित् सः तस्य वयस्येन नरदत्तेन सममिलत् । कुशलप्रश्नानन्तरं नरदत्तं पप्रच्छ, मित्र, अहं कूटमेकं वदामि । उत्तरं कथयसि किम्? इति ।  

नरदत्तः प्रत्यवदत्, अथ किम्, उत्तरं दातुं यते । कथय । देवदत्तः अकथयत्, मम पितुः पुत्रः एकः वर्तते । सः मम अग्रजोऽपि न, मम अनुजोऽपि न । सः कः ? नरदत्तः चिरं विचिन्त्य अवदत्, क्षमस्व, उत्तरं न मे भाति इति । देवदत्तः उच्चैः विहस्य अवदत्, सरलं खलु कूटम् । सः मोहम्मद् उस्मान् यः मुस्लिम् मोहल्लायाः प्रथमवीथ्यां वसति इति । नरदतश्च उच्चैर्जहास उस्मान् वर्यस्य नामधामविशेषान् कण्ठस्थं चकार च ।

- - -

 


Posted by murthygss at 7:24 AM EST

View Latest Entries