डि.वि.जि. महोदयस्य कन्नडभाषायां रचितात् “मंकुतिम्मनकग्ग”काब्यात् उद्धृतस्य श्लोकचतुष्टयस्य अनुवादः: [भारतीयविज्ञानसंस्थायाः संस्कृतसंघस्य “संस्कृतिः”पत्रिकायां २००७तमे वर्षे प्रकटितः]
शैले तृणं भव गृहे भव मल्लिका त्वम्
कृच्छ्राणि वर्षति विधौ उपलो भव त्वम् ।
दीनस्य दुर्बलजनस्य तु शर्करा त्वम्
युक्तो भवाखिलजनैस्सह मंकुतिम्मो ॥
चित्ते स्वलाभपरता जठरे बुभुक्षा
तालाद्वयं सुनिभृतं खलु सृष्टियन्त्रे ।
उन्मूलयन्नुडुगणान् रचयन्श्च कोटान्
तत्त्वां करोत्यनृजुं बत मूढतिम्मो ॥
कस्मिंश्चिदन्धविपिने प्रकृतिः प्रसूने
वल्ल्याः स्वचित्ररचनाप्रतिभां प्रयुङ्क्ते ।
कुर्वन्ति ये गुणमयं सकलं स्वकर्म
ते जीविते हि कृतिनो खलु मूढतिम्मो ॥
बालस्य वातिजरठस्य पुराणिकस्य
रूपे स्पृहास्ति न हि कस्य पुरोहितस्य ।
सर्वे समीक्ष्य मुकुरे रहसि स्वबिंबम्
कुर्वन्ति वक्त्रविकृतिं खलु मूढतिम्मो ॥
- - - -