हास्यसीकरः-५
देवदत्तः एकदा जटकाख्यतुरगशकटिकायां गच्छति स्म । मार्गे देवदत्तः शकटिकाचालकं पप्रच्छ, “भोः, नगर्यां का वार्ता?” । किञ्चिच्चकितः चालकः अवदत्, “आर्य, न काचिदपि वार्ता श्रुता मया । परं तु मम वयस्यः कूटमेकं ददौ । तदित्थं, “मम पितुः पुत्रः वर्तते यः मम अग्रजोऽपि न अनुजोऽपि न भवति ।सः कः? आर्यः कथयितुमर्हति ।“ देवदत्तः चिरमचिन्तयत् तथापि उत्तरं दातुं न शशाक । पराभूतः अवदत्, “न जाने । सः कः? कथय” इति । उच्चैर्विहस्य चालकः अवदत्, “आर्य, अहमेव” । देवदत्तोऽपि उच्चैर्जहास, “रुचिरं खलु तव कूटम् । तव नाम किम्?” चालकः अवदत्, “मम नाम मोहम्मद् उस्मान्” । “बाढं, त्वं कुत्र वससि?” । “ मुस्लिम् मोहल्लायाः प्रथम वीथ्याम्” । देवदत्तः कृच्छ्रेण चालकस्य नामधामविशेषान् कंठस्थमकरोत् ।
अथ कदाचित् सः तस्य वयस्येन नरदत्तेन सममिलत् । कुशलप्रश्नानन्तरं नरदत्तं पप्रच्छ, “मित्र, अहं कूटमेकं वदामि । उत्तरं कथयसि किम्?” इति ।
नरदत्तः प्रत्यवदत्, “ अथ किम्, उत्तरं दातुं यते । कथय ।“ देवदत्तः अकथयत्, “ मम पितुः पुत्रः एकः वर्तते । सः मम अग्रजोऽपि न, मम अनुजोऽपि न । सः कः ?“ नरदत्तः चिरं विचिन्त्य अवदत्, “क्षमस्व, उत्तरं न मे भाति “ इति । देवदत्तः उच्चैः विहस्य अवदत्, “सरलं खलु कूटम् । सः मोहम्मद् उस्मान् यः मुस्लिम् मोहल्लायाः प्रथमवीथ्यां वसति” इति । नरदतश्च उच्चैर्जहास उस्मान् वर्यस्य नामधामविशेषान् कण्ठस्थं चकार च ।
- - -